दोषः किं अस्ति? part 1

दोष

वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः॥ वा. सु.1.6
रसादिदूषणपूर्वकमेषां विकारकरणे सामर्थ्यमिति प्रदर्शनार्थं दोषसंज्ञया ते निर्दिष्टाः|
त्रय एव दोषाः , न चतुर्थोऽस्तीति। 
वातादयो हि स्वातन्त्र्यात्प्रधानाः। 
दूषयन्तीति दोषा इति तेषामेव चानुगतार्था संज्ञा प्रवृत्ता। रसाद्यास्तु पारतन्त्र्यादप्रधानाः। ते च वातादिभिर्दूष्यन्त इति दूष्याः। तस्माद्रक्तस्य दूष्यत्वम्, न दोषत्वम्।
वातादयो हि सर्वदैव रसादीन् दूषयन्ति, न तु रसादयः कदाचिदपि वातादीन् दूष्यन्ति।

विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च।

-तत्र विकृता देहं घ्नन्ति।विकृताः स्वभावप्रच्युताः|विकृतानां दोषाणां प्रागुपन्यासः, तेषां प्रकृत्यवस्थाने नित्यं भिषजा यत्नवता भाव्यमिति सूचनार्थम्। अन्यथा महान्प्रत्यवायः स्यात्।

 -अविकृता देहं वर्तयन्ति। अविकृताः पुनर्देहं वर्तयन्ति यापयन्ति।




Comments

Popular posts from this blog

आरोग्यालय पायदान - 4 (जवानी का जोश पत्थर पचाले पर अपमान का कण नहीं)

Medicine is second option,explore today your FIRST- Trinity of wellness

लेखमाला मोती- 9