चरक highlight -Day 4.1
Part 2
विधिशोणितीयोऽध्यायः
मुखपाकोऽक्षि१रागश्च पूतिघ्राणास्यगन्धिता ॥११॥
१. 'अक्षिपाकश्च' इति पा.|
गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः ।
उपकुशः मुखरोगविशेषः; यदुक्तं सुश्रुते- वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च। यस्मिन्नुपकुशो नाम पित्तरक्तकृतो गदः (सु. नि. १६) इति।
विद्रधी रक्तमेहश्च प्रदरो वातशोणितम् ॥१२॥
वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता ।
सन्तापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक् ॥१३॥
विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः ।
क्रोधप्रचुरता बुद्धेः सम्मोहो लवणास्यता ॥१४॥
स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः ।
तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम् ॥१५॥
कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः ।
कुष्ठ इत्युक्तेऽपि चर्मदलाभिधानं विशेषार्थम्।
विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः ॥१६॥
शोणिताश्रया इति भाषया शोणितस्य वातादिवत् स्वातन्त्र्येण रोगकर्तृत्वं निराकरोति।
शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः ।
अनुक्तभूरिशोणितरोगग्रहणार्थमाह- शीतोष्णेत्यादि।
आद्यग्रहणात्तीक्ष्णमृद्वादीनां ग्रहणम्।
सम्यक् साध्या न सिध्यन्ति रक्तजांस्तान् विभावयेत् ॥१७
सम्यगिति पूर्वेण योजनीयम् (अथवा ’सम्यगुपक्रान्ता इत्यन्वयः’ इति शिवदाससेनः !) ।
तत्र शीतोष्णस्निग्धरूक्षाद्यैरिति शोणितवृद्धिमनपेक्ष्य वातादिजयार्थमात्रप्रयुक्तैरिति मन्तव्यम्।
येन शोणितव्याधेरपि शान्तिर्वक्ष्यमाण रक्तपित्तहरक्रियादिभिः शीतोष्णस्निग्धादिक्रियाप्रविष्टैव, ततश्च शोणितरोगस्यापि शीतादिक्रियाभिरेव शोणितप्रतिकूलाभिः प्रशमो भवति;
प्रवृद्धशोणिताश्रयास्तु वातादय आश्रयप्रभावान्न स्वचिकित्सामात्रेण प्रशाम्यन्ति॥११-१७॥
शोणितरोगचिकित्सामाह-
कुर्याच्छोणितरोगेषु रक्तपित्तहरीं क्रियाम् ।
विरेकमुपवासं च स्रावणं शोणितस्य च ॥१८॥
कुर्यादित्यादि। रक्तपित्तहरक्रियादयो यथायोग्यतया बोद्धव्याः॥१८॥
उक्तशोणितस्रावणप्रमाणमाह
बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा ।
बलेत्यादि। बलदोषप्रमाणादिति बलस्य तथा दोषस्य शोणितव्याधिरूपस्य प्रमाणं वीक्ष्य;
दोषशब्दो ह्ययं रोगे वर्तते।
विशुद्ध्या रुधिरस्य चेति यावता स्रावणेन शोणितं विशुद्धं भवति।
रुधिरं स्रावयेज्जन्तोराश१यं प्रसमीक्ष्य वा ॥१९॥
१. '...रामयं' इति पा.|
आशयं स्थानं दुष्टशोणिताश(श्र)यमिति यावत्।
यथा- स्वल्पे कुष्ठे स्तोकमेव विशुद्ध्यर्थमुपादेयं, महति कुष्ठे बहु स्रावणीयम्। यदुक्तं- प्रच्छनमल्पे कुष्ठे महति च शस्तं सिराव्यधनम् (चि. ७) इति।
एषु च पक्षेषु यद्यत्रानत्ययं भवति तत्तत्र ग्राह्यम्॥१९॥
दुष्टरक्तलक्षणमाह
अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु ।
पित्तात् पीतासितं रक्तं स्त्यायत्यौष्ण्याच्चिरेण च ॥२०॥
स्त्यायति घनं भवति॥२०-२१॥
ईषत्पाण्डु कफाद्दुष्टं पिच्छिलं तन्तुमद्घनम् ।
संसृष्टलि१ङ्गं संसर्गात्त्रिलिङ्गं सान्निपातिकम् ॥२१॥
१. 'द्विदोषलिङ्गं' इति पा.|
विशुद्धरक्तलिङ्ग
तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम् ।
तपनीयं लोहितसुवर्णम्,
इन्द्रगोपः स्वनामप्रसिद्धः कीटविशेषः।
गुञ्जाफलसवर्णं च विशुद्धं विद्धि शोणितम् ॥२२॥
विशुद्धरक्तलिङ्गे नानावर्णता वातादिप्रकृतित्वान्मनुष्याणाम्॥२२॥
नात्युष्णादिभोजने हेतुमाह-
नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम् ।
नात्युष्णादिभोजने हेतुमाह- तदेत्यादि। अतिशीतमग्निमान्द्यं करोति,
अत्युष्णं च प्रचलस्यासृजो नितरां प्रचलतां करोति,
तस्मान्नात्युष्णशीतम्।
लघु दीपनीयं चाग्निदीप्त्यर्थमेव॥२३॥
तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषेण च रक्षितव्यः ॥२३॥
विशुद्धरक्तज्ञानार्थं लक्षणमाह
सम्प्रति शोणितादर्शनेनापि विशुद्धरक्तज्ञानार्थं लक्षणमाह- प्रसन्नेत्यादि।
प्रसन्नवर्णेन्द्रियमिन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम् ।
अव्याहता पक्तिश्च वेगश्च पुरीषादीनां यस्य स तथा॥२४॥
सुखान्वितं तु(पु)ष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति ॥२४॥
Comments
Post a Comment