चरक highlight -Day 3.1 (विधिशोणितीयोऽध्यायः part 1)
१ सूत्रस्थानम्
२४ विधिशोणितीयोऽध्यायः
'यद्यपि शोणितविकारा अपि वातादिजन्या एव, तथाऽपि धातुषु बहुविकारकर्तृत्वेन प्राधान्यसूचनार्थं पृथगध्यायेऽभिधानं ज्ञेयम् ' इति शिवदाससेनः!
विधिना शोणितं जातं शुद्धं भवति देहिनाम् ।
विधिनेति सम्यगाहाराचारविधिना।
उत्पादस्य जातशब्देन
देशकालौकसात्म्यानां विधिर्यः सम्प्रकाशितः ॥३॥
सात्म्यशब्दस्य देशादिभिः प्रत्येकमन्वयः।
ओकसात्म्यम् अभ्याससात्म्यम्।
विशुद्धं शोणितं किं करोतीत्याह-
तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा ।
तद्विशुद्धमित्यादि। तेन विधिना विशुद्धं तद्विशुद्धं; किंवा तदिति शोणितम्।
युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते ॥४॥
प्राणः शोणितं ह्यनुवर्तत इति शोणितान्वयव्यतिरेकमनुविधीयते। यदुक्तं- दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः। शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्- (सू.अ.२९) इति॥४॥
शुद्धिहेतुमभिधाय दुष्टिहेतुमाह-
प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः ।
प्रदुष्टं स्वप्रकृतिविपरीतम्।
अन्यैश्च तद्विधैरिति प्रदुष्टपानकादिभिः;
किंवा अन्नैः इति पाठः।
तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च ॥५॥
तथाऽतिलवणक्षारैरित्यादि केचिद्भेषजविषयं वर्णयन्ति,
तद्विधैरिति वचनेनान्नपानस्यातिलवणादेर्गृहीतत्वात्।
कुलत्थमाषनिष्पावतिलतैलनिषेवणैः ।
निष्पावः श्वेतशिम्बिः।
पिण्डालुमूलकादीनां हरितानां च सर्वशः ॥६॥
जलजानूपबैलानां प्रसहानां च सेवनात् ।
दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च ॥७॥
विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च ।
भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च ॥८॥
अत्यादानं तथा क्रोधं भजतां चातपानलौ ।
अत्यादानं तृप्तिमतिक्रम्य भोजनम्।
छर्दिवेगप्रतीघातात् काले चानवसेचनात् ॥९॥
काले चेति शोणितदुष्टियुक्ते शरत्काले।
श्रमाभिघातसन्तापैरजीर्णाध्यशनैस्तथा ।
अजीर्णेऽध्यशनमजीर्णाध्यशनं;
किंवा अजीर्णस्यापक्वस्याशनमजीर्णाशनम्,
अध्यशनं तु पूर्वान्नशेषे यद्भुज्यते, यदाह- भुक्तस्योपरि यद्भुक्तं तदध्यशनमुच्यते (चि.अ.१५)॥५-१०॥
शरत्कालस्वभावाच्च शोणितं सम्प्रदुष्यति ॥१०॥
Comments
Post a Comment