चरक highlight - Day 2.1
अ१तः क्षीराणि वक्ष्यन्ते कर्म चैषां गुणाश्च ये ॥१०५॥
१ अथवा अथ इति पाठः !
अविक्षीरम् अजाक्षीरं गोक्षीरं माहिषं च यत् ।
उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा ॥१०६॥
Gunas of ksheer
प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम् ।
प्रायशो मधुरमिति प्राधान्येन मधुरम्।
क्षीरमुष्ट्रीणामीषल्लवणं
तथा छागं कषायमित्यादौ रसान्तरस्याप्राधान्येनानुबन्धोऽपि क्षीरे भवतीति दर्शयति।
स्तन्यमिति स्तन्यवृद्धिकरम्।
प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम् ॥१०७॥
प्रायश इति बृंहणं स्निग्धमित्येताभ्यां तथा शीतमित्यनेन च सम्बध्यते;
तेनौष्ट्रस्य रूक्षोष्णत्वाभिधानं न विरोधि।
मनस्करमिति प्रभावादोजस्करत्वाच्च; ओजोवृद्ध्या हि तदनुविधायिनो मनसोऽपि स्वकर्मसामर्थ्यं भवति। एतदेव च नित्यस्येह मनसः करणं यन्मनसः प्रकर्षबुद्ध्युत्कर्षादिगुणकरणम्।
जीवनीयं श्रमहरं श्वासकासनिबर्हणम् ।
हन्ति शोणितपित्तं च सन्धानं विहतस्य च ॥१०८॥
हन्ति शोणितपित्तमिति अवस्थाविशेषापन्नमेव शोणितपित्तं हन्ति। वचनं हि- कषाययोगैर्विविधैर्यथोक्तैर्दीप्तेऽनले श्लेष्मणि निर्जिते च। यद्रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु, तत्र कार्यम्॥ छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा (चि.अ.४) इति। एवं च यदुच्यते- अधोभागे रक्तपित्ते सरत्वात् क्षीरमयौगिकम्, ऊर्ध्वगे च कफकर्तृतयाऽयौगिकमिति, तन्निरस्तम्।
सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा ।
सर्वप्राणभृतां सात्म्यमित्यत्र सर्वशब्दश्चिकित्स्यतया प्रकृतसर्वमनुष्येष्वेव वर्तते, तेन क्षीरस्य संस्वेदजादिप्राण्यसात्म्यत्वं नोद्भावनीयं; किंवा सर्वशब्दोऽयं भूरिवचनः॥१०५-११३॥
तृष्णाघ्नं दीपनीयं च श्रेष्ठं क्षीणक्षतेषु च ॥१०९॥
पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे ।
अतीसारे ज्वरे दाहे श्वयथौ च विशेष२तः ॥११०॥
२ अथवा विधीयते इति पाठः !
योनिशुक्रप्रदोषेषु मूत्रेष्व३प्रचुरेषु च ।
अथवा मूत्रेषु प्रदरेषु इति
पुरीषे ग्रथिते पथ्यं वातपित्तविकारिणाम् ॥१११॥
In which form can it be used
नस्यालेपावगाहेषु वमनास्थापनेषु च ।
विरेचने स्नेहने च पयः सर्वत्र युज्यते ॥११२॥
यथाक्रमं क्षीरगुणानेकैकस्य पृथक् पृथक् ।
अन्नपानादिकेऽध्याये भूयो वक्ष्याम्यशेषतः ॥११३॥
Comments
Post a Comment