Dravya 2- Mahanimb

महानिम्ब
Melia azedarach

भावप्रकाश-पूर्वखण्ड-मिश्रप्रकरण
४. गुडूच्यादिवर्ग
महानिम्ब
महानिम्बः स्मृतोद्रेका रम्यको विषमुष्टिकः । केशामुष्टिर्निम्बकश्च कार्मुको जीव इत्यपि ।।८५||
महानिम्बोऽहिमो रूक्षस्तिक्तो ग्राही कषायकः। कफपित्तभ्रमच्छर्दिकुष्ठहृल्लासरक्तजित् ॥ प्रमेहश्वासगुल्मार्शोमूषिकाविषनाशनः ।

अभिधानरत्नमाला
तिक्तस्कन्ध
अष्टाङ्ग निघंटु
वत्सकादि गण

कैयदेवनिघण्टु
१. औषधि वर्ग
अपरस्तु महानिम्बो गिरिकः शुकमालकः ।।८६||
रोमको रम्यको ड्रोक्को निम्बको विषमुष्टिकः । 
कार्मुको मालकक्षीरः शाकशालोऽक्षिपीलुकः ।|८८७|| महानिम्बो हिमो रूक्षो ग्राही तिक्तः कषायकः । 
निहन्ति कफपित्तास्रकुष्ठकोठवमिकृमीन् ।।८८८||

धन्वन्तरिनिघण्टु
१. गुडूच्यादिवर्ग
महानिम्व (निम्बविशेष)

महानिम्बः स्मृतोद्रेकी कार्मुको विषमुष्टिकः ।
केशमुष्टिर्निम्बवरो रम्यकोऽक्षीव एव च ।।३४|| 
कैडर्यः पिचुमन्दश्च निम्बोऽरिष्टो वरत्वचः ।।
छर्दिघ्नो हिङ्गुनिर्यासः प्रियशालश्च पार्वतः।|३५|| महानिम्बो रसे तिक्तः शीतः पित्तकफापहः।
कुष्ठरक्तविनाशी च विषूचीं हन्ति शीतलः ||३६||

निघण्टुशेष
१. वृक्षकाण्ड

महानिम्बे निम्बरकः कामुको विषमुष्टिकः । 
रम्यकः क्षीवको वृक्काऽक्षिपीलुः केशमुष्टिकः ||१३८||

निघण्टुशेषटीका व्याख्या (श्रीवल्लभगणि कृत)

महांश्च असौ निम्बश्च महानिम्बः, तत्र । 
निम्बवद रक्यते-आस्वाद्यते निम्बरकः । 
कमनशीलः कामुकः । 
विषस्य मुष्टिरिव विषमुष्टि: , के विषमुष्टिकः। 
रमयति रम्यः, 
"भव्य-गेय-जन्य-रम्य-" [सिद्ध. ५.१.७] इति साधु:, स्वार्थिके के रम्यक:। 
"क्षीवृङ् मदे" क्षीवते क्षीवकः । [वृज्यते वृक्का, निष्क-तुरुष्क-" [हैमोणादिसू. २६] इति के निपात्यते]। अक्ष्णि पीतुः अक्षिपीतुः। केशानां मुष्टिः केशमुष्टिः, के केशमुष्टिकः । आह च-

महानिम्बः स्मृतोद्रेकः कामुको विषमुष्टिकः। केशमुष्टिर्निम्बरको रम्पकः क्षीब एव च।। [---] इति।

एतस्य तोके बकायणि इति प्रसिद्धिः||१३८||


पर्यायरत्नमाला
महानिम्ब
कैटर्यः वमनेष्टश्च महानिम्बस्तु पार्वतः ।।३३४।।

मदनपालनिघण्टु
१. अभयादिवर्ग
महानिम्बं
महानिम्बो निम्बकरः कामुको विषमुष्टिकः ।
रम्यको गिरिकोऽद्रेकः क्षारः स्यात् केशमुष्टिकः ||१४|| महानिम्बो हिमो रूक्षस्तिक्तो ग्राही कषायकः ।
कफपित्तकृमिच्छर्दिकुष्ठह्वल्लासरक्तजित् ।।१४२।।

मदनादिनिघण्टु
१. प्रथमगण
अन्यो निम्बो महानिम्बो गिरिकशुकशालकः।
बृहन्निम्बो निम्बवरः कार्मुको विषमुष्टिकः ||८|| निम्बस्तिक्तो हिमः कुष्ठ कृमिपित्तकफापहः ।
महानिम्बः परङ्ग्राही कषायों रूक्षशीतलः ||९||

माधवद्रव्यगुण
१. विविधौषधिवर्ग

निम्ब: पित्तकफच्छर्दिव्रणहृल्लासकुष्ठनुत् । 
तत्फलं भेदनं स्निग्धमुष्णं कुष्ठहरं सरम् ।।१९| 
महानिम्बः परं ग्राही कषायो रूक्षशीतलः।

राजनिघण्टु
९. प्रभद्रादिवर्ग

महानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः। 
काकाण्डो रम्यकोऽक्षीरो महातिक्तो हिमद्रुमः ||११|| महानिम्बस्तु शिशिरः कषायः कटुतिक्तकः | अस्रदाहबलासघ्नो विषमज्वरनाशनः||१२||

राजवल्लभनिघण्टु
६. औषधाश्रयपरिच्छेद
निम्बः पित्तकफछर्दिव्रणहृत् वातकुष्ठनुत् ||६||
महानिम्बगुण
महानिम्बः परं ग्राही कषायोम्लश्च शीतलः ||६४||

शब्दचन्द्रिका
९. त्रिफलादिवर्ग
त्रिफलादि विविधवर्ग

महानिम्बं नागबला श्यामा नागमलोत्सरः ||३५||

सिद्धसारनिघण्टु
महानिम्बो बृहन्निम्बो दीप्यकः स्याद् यवानिका।।३७||

सोढल निघण्टु
गुणसङ्ग्रह (द्वितीय भाग)
 १. गुडूच्यादिवर्ग
गुडूच्यादिवर्गद्रव्यगुण

निम्बः पित्तकफच्छर्दि  व्रण र्हृल्लासकुष्ठजित् ।
महानिम्बः परं ग्राही कषायो रूक्षशीतलः ॥१२७||



Comments

Popular posts from this blog

आरोग्यालय पायदान - 4 (जवानी का जोश पत्थर पचाले पर अपमान का कण नहीं)

Medicine is second option,explore today your FIRST- Trinity of wellness

लेखमाला मोती- 9