July 2021 edition of दैनिक संहिता 2/07/3021
माधव निदान हृद्रोग निदान अथ हृद्रोगनिदानम् | अत्युष्णगुर्वन्नकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः | सञ्चिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः ||१|| ( Ati ushna,ati guru anna,ati kashaya anna,ati tikta anna, ati shrama ,ati abhighat (to heart),ati adhyashan, ati prasang -again and again ,sat-chintan - fear of king,etc,vegdharan.) गुल्मस्य हृदयं स्थानमुक्तम्, अतो हृदयसङ्कीर्तनात् हृद्रोगारम्भः| गुल्मस्य हृदयं स्थानमुक्तमतो गुल्मानन्तरं हृद्रोगारम्भः। प्रसङ्गः सातत्येन सेवा, अत्युष्णादयो यथायोग्यं वातादीनां क्रिमेश्च निदानमिति बोध्यम्||१|| | तस्य हेतुमाह– अतीत्यादि| उष्णादिभिरतिशब्दः प्रत्येकं सम्बध्यते| उष्णादयोऽतिसेविता वातादीनां हृदामयानां क्रिमिजस्य च हेतवो भवन्ति, श्रमो धनुःकर्षणादिः, अभिघातो हृद्येव, सञ्चिन्तनं नृपतिभयादिकं; स च पञ्चप्रकारः– वातादिभिस्त्रयः, सन्निपातेन, क्रिमिभिश्च||१|| There are not just 5 types of हृदरोग - Vataj,Pittaj,Kaphaj,Sannipatik,krimi.