चरक highlight -Day 1.2
Charak sutrasthan 1.92-104 With tika and pathabheda _न्यू(ऊ)र्ध्वं मूत्राण्यष्टौ निबोध मे ॥९२॥ मुख्यानि यानि दिष्टा१नि सर्वाण्यात्रेयशासने । अविमूत्रमजामूत्रं गोमूत्रं माहिषं च यत्॥९३॥ हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च । (१ अथवा दृष्टानि इति पाठः) उष्णं तीक्ष्णमथोऽ3रूक्षं कटुकं लवणान्वितम् ॥९४॥ (३ अथवा अरूक्षं स्निग्धं इति गङ्गाधरः;योगीन्द्रनाथस्तु रूक्षं इति पठति!) मूत्रमुत्सादने युक्तं युक्तमालेपनेषु च । युक्तमास्थापने मूत्रं युक्तं चापि विरेचने ॥९५॥ स्वेदेष्वपि च तद्युक्तमानाहेष्वगदेषु च । उदरेष्वथ चार्शःसु गुल्मि4कुष्ठिकिलासिषु ॥९६॥ तद्युक्तमुपनाहेषु परिषेके तथैव च । (4 अथवा गुल्मकुष्ठकिलासिषु इति पाठः ! ) दीपनीयं विषघ्नं च क्रिमिघ्नं चोपदिश्यते ॥९७॥ पाण्डुरोगोपसृष्टानामुत्तमं श र्म चोच्यते । ( शर्म चोच्यत इति आरोग्यरूपसुखकर्तृत्वात् ।) श्लेष्माणं शमयेत् पीतं मारुतं चानुलोमयेत् ॥९८॥ कर्षेत् पित्तमधोभागमित्यस्मिन् गुणसङ्ग्रहः । ( अधोभागमिति अधोमार्गेण पित्तं कर्षेत्; किंवा यदेवाधोगतं पित्तं तदेव विरेचयति नोर्ध्वगम्।) सामान्येन मयोक्तस्तु पृथक्त्वेन प्रवक्ष्यते ॥९९॥ अविमूत्...